|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.145. अध्यायः 145
Mahabharata - Shanti Parva - Chapter Topics
पत्नीचोदितेन कपोतेन शुष्कपर्णैः पावकसंदीपनेन व्याधस्य शैत्यापनोदनपूर्वकं पुनः स्वेन तदभीष्टकरणप्रतिज्ञा॥ 1॥ तेन तस्य क्षुन्निवृत्तिप्रार्थने फलादिकं किमप्यलभमानेन कपोतेन स्वमांसेन तदीयक्षुत्परिजिहीर्षयाऽग्नौ प्रवेशनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-145-0x(5785)(70840)
सपत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः॥ 12-145-1(70841)
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा।
स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम्॥ 12-145-2(70842)
उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते।
सतांपश्च न कर्तव्यः स्वगृहे वर्तते भवान्॥ 12-145-3(70843)
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः॥ 12-145-4(70844)
अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः॥ 12-145-5(70845)
शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः॥ 12-145-6(70846)
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी।
तस्य नायं न च परो लोको भवति धर्मतः॥ 12-145-7(70847)
तद्ब्रूहि मां सुविस्रब्धो यत्त्वं वाचा वदिष्यसि।
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः॥ 12-145-8(70848)
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्।
बाधते खलु मां शीतं संत्राणं हि विधीयताम्॥ 12-145-9(70849)
एवमुक्तस्तनः पक्षी पर्णान्यास्तीर्य भूतले।
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ॥ 12-145-10(70850)
स---वाऽङ्गारकर्मान्तं गृहीत्वाऽग्निमथागमत्।
तथा शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत्॥ 12-145-11(70851)
स--प्तं महत्कृत्वा तमाह शरणागतम्।
----- सुविस्रब्धः स्वगात्राण्यकुतोभयः॥ 12-145-12(70852)
-- तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्।
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम्॥ 12-145-13(70853)
हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः।
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा॥ 12-145-14(70854)
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहंगमः॥ 12-145-15(70855)
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः॥ 12-145-16(70856)
संचयो नास्ति चास्माकं मुनीनामिव कानने।
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत्॥ 12-145-17(70857)
कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा।
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः॥ 12-145-18(70858)
मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय॥ 12-145-19(70859)
इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम्।
हर्षेण महताऽऽविष्टः कपोतः पुनरब्रबीत्॥ 12-145-20(70860)
ऋषीणां देवतानां च पितृणां च महात्मनाम्।
युतः पूर्वं मया धर्मो महानतिथिपूजने॥ 12-145-21(70861)
कुरुष्वानुग्रहं सौम्य सत्यमेतद्ब्रबीमि ते।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने॥ 12-145-22(70862)
ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव।
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः॥ 12-145-23(70863)
अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा च पक्षिणम्।
चिन्तयामास मनसा किमिदं वै मया कृतम्॥ 12-145-24(70864)
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा।
अधर्मः सुमहान्धोरो भविष्यति न संशयः॥ 12-145-25(70865)
एवं बहुविधं भूरि विललाप स लुब्धकः।
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथाऽऽगतम्॥ ॥ 12-145-26(70866)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥ 145॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-145-3 संकोचश्च न कर्तव्य इति थ. पाठः॥ 12-145-11 अङ्गारकर्मान्तं कर्मारगृहसमीपम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|